Q 8(b).

अधोलिखितं सन्दर्भ सम्यक् अवधार्य तदधस्तात् पृष्टानां प्रश्नानाम् उत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम् । प्रत्येकमुत्तरं 3-4 पंक्तिभिः भवेत् :

गृहत्यागादनन्तरं सिद्धार्थः सत्यस्य साधनायां संलग्नोऽभवत् । पञ्चभिर्भिक्षुभिः अटन् ऊरुबेलायामेकान्तक्षेत्रे स प्राविशत्। सत्यसन्धानाय स तत्र स्थितवान् । जनाः तं शाक्यमुनिरिति ज्ञातवन्तः । तस्य अयं कालः आर्यपर्यवेक्षणाकाल उच्यते। शाक्यमुनिः सत्यानुसन्धाने शान्तिपर्येषणायां च भ्रमति स्म। स कठोरान् नियमान् पालयामास । परन्तु आत्मशान्तिर्न लब्धा । ध्यानयोगेन अपि सन्तोषो न प्राप्तः। योगाभ्यासेनापि जरामरणादीनामन्तो नावलोकितः । षड् वर्षाणि कृच्छ्रे तपः कृत्वा विषादग्रस्तः सन् तत् स्थानं परित्यज्य स गयां गतवान्। तत्र निरञ्जनानदीतटे पिप्पलस्याधः कृतसंकल्पः समासीन आसीत् । सम्बोधिप्राप्त्यै स समाधिस्यः अभवत् । तस्यामवस्थायां सम्बोधिबलेन तस्य आर्यसत्योपलब्धिर्जाता। रात्रेः प्रथमे प्रहरे स्वजीवनस्यातीतमितिहासं द्वितीये प्रहरे च दिव्यदृष्टिबलेन कर्मफलभोगे मग्नं संसारमवलोकितवान् । तृतीये प्रहरे जरामरणादीनां द्वादशानां निदानानां ज्ञानं प्राप्तम्। ततः तेषां निदानानां निवारकस्वरूपस्य निर्वाणस्य अनायासोपलब्धिर्जाता। तस्य साधना फलवती अभवत् । आर्यसत्यानां ययार्थज्ञानेन स बुद्धत्वं प्राप्तवान् ।

(i) सिद्धार्थः ऊरुबेलायां केन रूपेण उपस्थितः ?

(ii) स कथं शाक्यमुनिः बभूव ? स च कथं भ्रमति स्म ?

(iii) शाक्यमुनिरूपेण तस्य का स्थितिः अभवत् ?

(iv) स कुत्र केन प्रकारेण सम्बोधि प्राप्तवान् ?

(v) स सम्बोधेः अनन्तरं कथं बुद्धत्वं प्राप्तवान् ? 

(UPSC 2025, 25 Marks, 300 Words)


Explanation

 ● सिद्धार्थः ऊरुबेलायां केन रूपेण उपस्थितः?  
        ○ सिद्धार्थः ऊरुबेलायां एकान्तक्षेत्रे सत्यसन्धानाय उपस्थितः।
        ○ तत्र पञ्चभिर्भिक्षुभिः सह अटन् शाक्यमुनिरिति जनैः ज्ञातः।
  ● स कथं शाक्यमुनिः बभूव? स च कथं भ्रमति स्म?  
        ○ सिद्धार्थः सत्यसन्धानाय ऊरुबेलायां स्थितवान्।
        ○ कठोरान् नियमान् पालयन् शान्तिपर्येषणायां भ्रमति स्म।
  ● शाक्यमुनिरूपेण तस्य का स्थितिः अभवत्?  
        ○ शाक्यमुनिः ध्यानयोगेन अपि सन्तोषं न प्राप्तवान्।
    ● योगाभ्यासेन जरामरणादीनामन्तं नावलोकितः।  
  ● स कुत्र केन प्रकारेण सम्बोधि प्राप्तवान्?  
        ○ स गयां गत्वा निरञ्जनानदीतटे पिप्पलस्याधः समासीनः।
        ○ तत्र सम्बोधिप्राप्त्यै समाधिस्यः अभवत्।
  ● स सम्बोधेः अनन्तरं कथं बुद्धत्वं प्राप्तवान्?  
        ○ रात्रेः प्रथमे प्रहरे स्वजीवनस्यातीतमितिहासं ज्ञातवान्।
    ● द्वितीये प्रहरे दिव्यदृष्टिबलेन कर्मफलभोगे संसारमवलोकितवान्।  
    ● तृतीये प्रहरे जरामरणादीनां द्वादशानां निदानानां ज्ञानं प्राप्तम्।  
        ○ तस्य आर्यसत्योपलब्धिः जता, ययार्थज्ञानेन स बुद्धत्वं प्राप्तवान्।