Q 8(a). अधोलिखितं सन्दर्भ सम्यक् अवधार्य तदधस्तात् पृष्टानां प्रश्नानाम् उत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम् । प्रत्येकम् उत्तरं 3-4 पंक्तिभिः भवेत्:
पुरा त्रयो व्यवसायाः प्रधानरूपेण प्रचलिता आसन् कृषिः पशुपालनं शिल्पं च । एतैर्निष्पन्नानि वस्तूनि व्यापारद्वारा देशेषु विदेशेषु च प्रेष्यन्ते स्म। प्राचीना भारतीयाः कृषिप्रधाना आसन् सम्प्रत्यपि सन्ति । कृषिजं वस्तु अवलम्ब्य माङ्गलिको विधिरनुष्ठीयते । अन्नस्य महिम्ना कृषिगौरवं ज्ञायते । तथा हि अन्नं न निन्द्यात्। अन्नवानन्नादो भवति । अन्नं न परिचक्षीत। अन्नं बहु कुर्वीत । तद् व्रतम् । एवं तैत्तिरीयोपनिषदन्नस्य महिमानं स्तौति । अन्नं ब्रह्मेति मतम् । नवीनप्रस्तरयुगे वन्यानामन्नानां भोज्यत्वमभोज्यत्वं वा परिज्ञातुं प्रयासोऽभवत्। खाद्यान्नानां कृषिविधिना कृत्रिमैरुपायैर्विकासः समारब्धः । तस्मात् कालादारभ्य कस्मिन् ऋतौ कीदृशे च क्षेत्रे कियन्मात्रं बीजं वपनीयम्, तस्य सुसंवर्धनाय कियत् सेचनं कर्तव्यम्, भूमेरुत्पादकशक्तिः कथं वर्धनीयेति समस्या अधिकृत्य सम्यग्गवेषणं कृतम् । प्रयतमानाश्च ते कृषका अस्मिन् विषये स्वदेशस्य विदेशानां च बीजानि फलानि च स्वदेशे संवर्धितवन्तः । नित्यमेव वन्यानां कृषिजानां चान्नानां कृषिकल्पं कृतवन्तः ।
(i) पुरा के के व्यवसायाः प्रचलिताः ?
(ii) अन्नस्य महिमा कीदृशं स्तूयते स्म ?
(iii) नवीनप्रस्तरयुगे कीदृशः प्रयासः समारब्धः ?
(iv) कृषिनिमित्तं कीदृशं गवेषणं कृतम् ?
(v) कृषकाः अस्मिन् विषये किं कृतवन्तः ?
(UPSC 2025, 25 Marks, 300 Words)
अधोलिखितं सन्दर्भ सम्यक् अवधार्य तदधस्तात् पृष्टानां प्रश्नानाम् उत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम् । प्रत्येकम् उत्तरं 3-4 पंक्तिभिः भवेत्:
पुरा त्रयो व्यवसायाः प्रधानरूपेण प्रचलिता आसन् कृषिः पशुपालनं शिल्पं च । एतैर्निष्पन्नानि वस्तूनि व्यापारद्वारा देशेषु विदेशेषु च प्रेष्यन्ते स्म। प्राचीना भारतीयाः कृषिप्रधाना आसन् सम्प्रत्यपि सन्ति । कृषिजं वस्तु अवलम्ब्य माङ्गलिको विधिरनुष्ठीयते । अन्नस्य महिम्ना कृषिगौरवं ज्ञायते । तथा हि अन्नं न निन्द्यात्। अन्नवानन्नादो भवति । अन्नं न परिचक्षीत। अन्नं बहु कुर्वीत । तद् व्रतम् । एवं तैत्तिरीयोपनिषदन्नस्य महिमानं स्तौति । अन्नं ब्रह्मेति मतम् । नवीनप्रस्तरयुगे वन्यानामन्नानां भोज्यत्वमभोज्यत्वं वा परिज्ञातुं प्रयासोऽभवत्। खाद्यान्नानां कृषिविधिना कृत्रिमैरुपायैर्विकासः समारब्धः । तस्मात् कालादारभ्य कस्मिन् ऋतौ कीदृशे च क्षेत्रे कियन्मात्रं बीजं वपनीयम्, तस्य सुसंवर्धनाय कियत् सेचनं कर्तव्यम्, भूमेरुत्पादकशक्तिः कथं वर्धनीयेति समस्या अधिकृत्य सम्यग्गवेषणं कृतम् । प्रयतमानाश्च ते कृषका अस्मिन् विषये स्वदेशस्य विदेशानां च बीजानि फलानि च स्वदेशे संवर्धितवन्तः । नित्यमेव वन्यानां कृषिजानां चान्नानां कृषिकल्पं कृतवन्तः ।
(i) पुरा के के व्यवसायाः प्रचलिताः ?
(ii) अन्नस्य महिमा कीदृशं स्तूयते स्म ?
(iii) नवीनप्रस्तरयुगे कीदृशः प्रयासः समारब्धः ?
(iv) कृषिनिमित्तं कीदृशं गवेषणं कृतम् ?
(v) कृषकाः अस्मिन् विषये किं कृतवन्तः ?
(UPSC 2025, 25 Marks, 300 Words)Explanation
● कृषिः: प्राचीनकाले कृषिः प्रमुखः व्यवसायः आसीत्। अन्नस्य उत्पादनं कृषिणा एव अभवत्।
● पशुपालनं: पशुपालनं द्वितीयः व्यवसायः आसीत्, यस्मात् दुग्धं, ऊर्णं, चर्म च प्राप्तम्।
● शिल्पं: शिल्पं तृतीयः व्यवसायः आसीत्, यस्मात् विविधानि हस्तकला वस्तूनि निर्मितानि।
(ii) अन्नस्य महिमा कीदृशं स्तूयते स्म ?
● अन्नस्य महिमा: अन्नं निन्द्यं न भवति, अन्नस्य महत्त्वं तैत्तिरीयोपनिषदि स्तूयते।
● अन्नं ब्रह्म: अन्नं ब्रह्मेति मतं, अन्नस्य महिम्ना कृषिगौरवं ज्ञायते।
● व्रतम्: "अन्नं बहु कुर्वीत" इति व्रतम्, अन्नस्य उत्पादनं महत्त्वपूर्णं मन्यते।
(iii) नवीनप्रस्तरयुगे कीदृशः प्रयासः समारब्धः ?
● विकासः: खाद्यान्नानां कृषिविधिना कृत्रिमैरुपायैर्विकासः समारब्धः।
● भोज्यत्वं परिज्ञानम्: वन्यानामन्नानां भोज्यत्वमभोज्यत्वं वा परिज्ञातुं प्रयासः अभवत्।
● उपायाः: कृत्रिमैः उपायैः अन्नस्य उत्पादनं वर्धितम्।
(iv) कृषिनिमित्तं कीदृशं गवेषणं कृतम् ?
● ऋतु-क्षेत्र-बीज: कस्मिन् ऋतौ कीदृशे च क्षेत्रे कियन्मात्रं बीजं वपनीयम् इति गवेषणं कृतम्।
● सेचनं: तस्य सुसंवर्धनाय कियत् सेचनं कर्तव्यम् इति विचारः।
● भूमेः उत्पादकशक्तिः: भूमेरुत्पादकशक्तिः कथं वर्धनीयेति समस्या अधिकृत्य गवेषणं कृतम्।
(v) कृषकाः अस्मिन् विषये किं कृतवन्तः ?
● बीजानि फलानि च संवर्धितवन्तः: स्वदेशस्य विदेशानां च बीजानि फलानि च स्वदेशे संवर्धितवन्तः।
● कृषिकल्पं कृतवन्तः: नित्यमेव वन्यानां कृषिजानां चान्नानां कृषिकल्पं कृतवन्तः।
● प्रयत्नः: कृषकाः प्रयत्नशीलाः सन्तः कृषिविषये नवोन्मेषं कृतवन्तः।